सम्यग् विवेचितं ग्रन्थानुसारं ब्राह्मणत्वम् गौड-द्राविडत्वं पूर्वं तावद् द्विविधत्वम्।
महाभारतेपि ब्राह्मणविषयत्वं विवेचितं द्रष्टव्यं तत्रैव।
तत्र विवेचने कर्माधारत्वं वर्णितम्।वनपर्वणि तत्र आजगरपर्वणि180तमाध्याये सर्पयोनौ नहुषस्य राज्ञः युधिष्ठिर-मध्ये वार्ताक्रमः ।
सर्प उवाच
ब्राह्मणः को भवेद् राजन्
वेद्यं किं च युधिष्ठिर।
ब्रवीहि अतिमतिं त्वां हि
वाक्यैः अनुमिमीमहे।।20।।
युधिष्ठिर उवाच
सत्यं दानं क्षमा शीलम्
आनृशस्यं तपोघृणा।
दृश्यन्ते यत्र नागेन्द्र
स ब्राह्मण इति स्मृतः।।21।।
वेद्यं सर्वं परं ब्रह्म
निर्दुःखम् असुखं च यत्
यत्र गत्वा न शोचन्ति
भवतः किं विवक्षितम्।।22।।
शूद्रे तु यद् भवेल् लक्ष्यं
द्विजे तच्च न विद्यते।
न वै शूद्रः भवेत् शूद्रः
ब्राह्मणः न च ब्राह्मणः।।25।।
यत्रैतल् लक्ष्यते सर्वं वृत्तं
स ब्राह्मणः स्मृतः।
यत्रैतन् न भवेत् सर्प तं
शूद्रम् इति निर्दिशेत्।।26।।
यत्रेदानीं महासर्प!
संस्कृतं वृत्तम् इष्यते।
तं ब्राह्मणम् अहं पूर्वम्
उक्तवान् भुजगोत्तम।।37।।
अथ च
अनुशासनपर्वणि दानधर्मपर्व
तत्र 104तमाध्याये
ये न पूर्वाम् उपासन्ते
द्विजाः सन्ध्यां न पश्चिमाम्।
सर्वांस्तान् धार्मिकः राजा
शूद्रकर्माणि कारयेत्।।19।।
इत्यत्र महाभारम् अवश्यम्
अनुसन्धेयम्, ब्राह्मणविषये।
हरिः शरणम्
shishirchandrablog.in