शरीरं मृद्भाण्डं तद् यदा रामो न धार्यते।
रामे मनस् तदा जातं चिन् मयं तत्कलेवरम्।।
कस्तूरिका नाभिदेशे राजते गन्धमादिनी।
मृगेणान्विष्यते सैव बहिर्वनवनान्तरे।।
एवम् अनन्तं च सत्यं च ज्ञानसत्वं ध्रुवं स्थितम्।सच्चिदानन्दात्मके ह्यात्मनि गुरुकृपयानुभूयते।।
कोहं कस्मादहं जातः कुत्र लक्ष्यं न पश्यति।शास्त्रस्य कृपया लक्ष्येत् स्वात्मदृष्टिः न संशयः।।
आत्मा कः परमात्मा कः तस्यैकत्वं न पश्यति।सतां हि कृपया लक्ष्येत् स्वात्मदृष्टिः न संशयः।।
विहितानां हि कृत्यानां धारणं नैव वारणम्। निषिद्धकर्मणां त्यागः विवेकत्वात् परा गतिः।।
मनुष्याणामात्मकल्याणं स्वात्मनैवावधार्यते।
अतः सन्तः सदा धार्याः मनोवाक्कायकर्मभिः।
सतां यत् सङ्गस्तत् पुण्यैः कृत्यैः फलीयते।
हरेर्गुरोः कृपातो वा रसस्याधिगमो भवेत्।।
अतः सतां च शास्त्राणां प्रीतिः प्रति प्रतीयते।सदात्मकल्याणप्राप्तिः सद्भिः शास्त्रैश्च प्राप्यते।।
हरिगुरुसन्तः शरणम्
https://shishirchandrablog.in