बालं नवीनशतपत्रविशालनेत्रं बिम्बाधरं सजलमेघरुचिं मनोज्ञं।
मन्दस्मितं मधुरसुन्दरमन्दयानं श्रीनन्दनन्दनमहं मनसा नमामि ॥१॥
मञ्जीरनूपुररणन्नवरत्नकाञ्ची-श्रीहार केसरिनखप्रतियन्त्र-संघम्।
दृष्ट्यार्तिहारिमषिबिन्दुविराजमानं, वन्दे कलिन्दतनुजा-तटबाल-केलिम् ॥२॥
पुर्णेन्दुसुन्दरमुखोपरि-कुञ्चिताग्रा: केशा: नवीनघननीलनिभा: स्फुरन्ति।
राजन्त आनतशिर:कुमुदस्य यस्य नन्दात्मजाय सबलाय नमो नमस्ते ॥३॥
श्रीनन्दनन्दनस्तोत्रं प्रातरुत्थाय य: पठेत् ।
तस्य नेत्रगोचरं याति सानन्दं नन्दनन्दन:॥४॥
सादर नमन
LikeLiked by 1 person