धारकोद्धारकः धर्मः सिद्धः साध्यश्च कीर्तितः।अग्नौ दाहकत्वे सति तदग्निः सिद्धपूर्वतः। अन्यथा यदि शीतत्वं तदग्निः स्यात् कथं वद। एवं मनुष्यता धर्मः मनुष्ये यदि वर्तते।तन्मनुष्यः भवेन् नूनं साध्यधर्मो निगद्यते।मनुना मानवेन्द्रेण मनुधर्मः प्रकीर्तितः।तावत् प्राथमं कृत्यं मानुषे यत् शरीरकम् ।विवेकशीलता धर्मः ख्यातः साधुमानितः।
यदि विवेचिनी बुद्धिः मनुष्ये पूर्वसिद्धिता।
तदा विचारः कर्तव्यः सर्वस्मिन्कार्यकारके।
विचार्यैव कार्यं कर्तव्यं सर्वकाले पदे-पदे।
विचार्य कार्यकरणे मर्यादा भवति ध्रुवम्।।
मर्यादा यदि जायेत गुणा आयान्ति निश्चितम्। करुणा क्षमा सुशीलत्वं सारल्यं तोषकारिता। यद्येषः गुणगणः मनुष्ये व्यवहार्यते।तदेषः मनुजः नूनं वक्तुं शक्यमिति ध्रुवम्।अन्यथा वैपरीत्ये सति मानुषो नैष कीर्तितः।
मानुषो धर्मश्च मर्यादा शिक्षिता साधुसम्मता।भगवता रामचन्द्रेण प्राकृतं योनिमास्थितम्।अतः परीक्ष्य कर्तव्यं सर्वकर्मसमुत्थिते।सार्थं जन्म हि तस्यैव न पुनः जन्म जायते।
हरिगुरुसन्तः शरणम्।
http://shishirchandrablog.in