काशते काशिका

यस्य मानं गतं यन्मनो निर्मलं
श्रीगुरोः श्रीहरेर्वै कृपाशक्तितः।
तस्य काशीं गतं नागतं का कथा।

यस्य बुद्धिर्विवेके चरत्यनुदिनं
श्रीहरेर्हारिणी सा कृपालम्बिता।
तस्य काशीं गतं नागतं का कथा।

यस्य चित्तं गतं श्रीगुरोर्नीरजे
गन्धमत्तं प्रमत्तं क्षणं प्रतिक्षणम्।
तस्य काश्यामयोध्यां गतं नागतम्।

यज्जगत्कारणं सद्रजस्तामसं
ईश्वरीशक्तिकां जातजातां पराम्।
तस्य काशीं गतं नागतं का कथा।

कर्मजालानुबद्धा वयं जीवकाः
श्रीगुरोरम्बुजान् मे मतिर्मानिता।
तस्य काश्यामयोध्यां गतं नागतम्।

यद्यहङ्कारमूढं मतं मद्गतं
श्रीगुरोः श्रीहरेः तद्दयाशीलतः।
तस्य काशी पुरः काशते काशिका।

हरिगुरुसन्तः शरणम्।


http://shishirchandrablog.com

Unknown's avatar

Author: Prof. Shishir Chandra Upadhyay

I am Professor of Sanskrit subject in K.B.P.G College, Mirzapur, Uttar Pradesh, India, since 1991.

Leave a comment