यदि समस्तमिदं जगतीतलं
तव स्वरूपमहो प्रभु दृश्यते।
तदनु कारणमामनुते मनः
तव कृपाकरुणा परिसिद्ध्यति।।
यदि मयि प्रति ते द्रवते मनः,
तदिह चेतयते मम चेतना।
त्वमिह सिद्ध्यसि हेतुरवश्यता
जननि रामरमे शिववासने।।
यदि विनिश्तितबुद्धिरभून्मता
भवसि कालकलाकुलिता कले।
सकलसज्जनसज्जितधारणे,
धरणि धाम्नि धराधरिता कृपा।।
अधरधारितहास्यविशेषता,
सविधि ये परिभूय परिस्थिता।
परमपारपरे परितः स्थितिः,
तव विलोक्य जनाः विवशीकृताः।।
स्ववशहारविहारविचित्रता,
जनितमादनमोदमदा मता।
तव सुदर्शनदर्शनदिव्यता,
समनुभूय जगत् परिभाव्यते।।
यदि जने भविता करुणाकृपे
हृदि गतं रसनं स्रवते शुभे।
तव स्वभावविभावविभाव्यते,
सकलभक्तजनैरनुभूयते।।
हरिगुरुसन्तः शरणम्