हरे राम कृष्ण

यद्यनित्यं जगज्जातं
मलमूत्रकलेवरम्।
तदा रुचिः कथं देव
विनश्यद्भाण्डमध्यगे।

नूनं वयं विभक्तैवं त्वत्तः कर्मविपाकतः। अतः भक्तं मन्यमानं माम् अविभक्तं क्रियात् प्रभो।

मनसस् त्यागः भवेत् कस्य भाग्यवन्तस्य देहिनः। आपातरमणीयस्य संसारानित्यवस्तुनः।

यदि भवति वमनवन् निर्गतष्तृष्णभूत्वा जगति विषयजालं त्याग एवाभिरम्यम्।

कुरु गुरुगुरुता मर्षणीयः जनोयम्। यच्छतु नवनितरां रागरागं पदाब्जे।

मनोबन्धबन्धाय चरणारविन्दे।
हरे राम कृष्ण हरे राम कृष्ण।
कुरु त्वं प्रभो पाहि मां दीनबन्धो। असह्यं विषं वैषयं जातमानम्।

सदानन्दसन्दोहपूर्णं क्रियान् माम्। हरे राम कृष्ण हरे राम कृष्ण।

गुरुः शरणम्।हरिः शरणम्

http://shishirchandrablog.in

Unknown's avatar

Author: Prof. Shishir Chandra Upadhyay

I am Professor of Sanskrit subject in K.B.P.G College, Mirzapur, Uttar Pradesh, India, since 1991.

Leave a comment